|
|
 |
 |
|
|
८ कर्णपर्व.jpg)
॥ श्रीः ॥
8.18. अध्यायः 018
Mahabharata - Karna Parva - Chapter Topics
अर्जुनेन संशप्तकपराजयः॥ 1 ॥

Mahabharata - Karna Parva - Chapter Text
सञ्जय उवाच। 8-18-0x(4866)(55735)
श्वेताश्वोऽपि महाराज व्यधमत्तावकं बलम्।
यथा वायुः समासाद्य तूलराशिं समन्ततः॥ 8-18-1(55736)
प्रत्युद्ययुस्त्रिगर्तास्तं शिबयः कौरवैः सह।
वसातयोऽथ साल्वाश्च गोपालाश्च यशस्विनः॥ 8-18-2(55737)
सत्यदेवः सत्यकीर्तिर्मित्रदेवः श्रुतञ्जयः।
सौश्रुतिश्चन्द्रदेवश्च मित्रवर्मा च भारत॥ 8-18-3(55738)
त्रिगर्तराजः समरे भ्रातृभिः परिवारितः।
पुत्रैश्चैव महेष्वासैर्नानाशस्त्रविशारदैः॥ 8-18-4(55739)
व्यसृजन्त शस्त्रातान्किरन्तोऽर्जुनमाहवे।
अभ्यवर्तन्त सहसा वार्योघा इव सागरम्॥ 8-18-5(55740)
ते त्वर्जुनं समासाद्य योधाः शतसहस्रशः।
अगच्छन्विलयं सर्वे तार्क्ष्यं दृष्ट्वेव पन्नगाः॥ 8-18-6(55741)
ते हन्यमानाः समरे न जहुः पाण्डवं रणे।
हन्यमाना महाराज शलभा इव पावकम्॥ 8-18-7(55742)
सत्यदेवस्त्रिभिर्बाणैर्विव्याध युधि पाण्डवम्।
मित्रदेवस्त्रिषष्ट्या तु चन्द्रदेवस्तु सप्तभिः॥ 8-18-8(55743)
मित्रवर्मा त्रिसप्तत्या सौश्रुतिश्चापि सप्तभिः।
श्रुतंजयस्तु विंशत्या सुशर्मा नवभिः शरैः॥ 8-18-9(55744)
स विद्वो बहुभिः सङ्ख्ये प्रतिविव्याध तान्नृपान्।
सौश्रुतिं सप्तभिर्विद्व्वा चन्द्रदेवं त्रिभिः शरैः॥ 8-18-10(55745)
श्रुतंजयं च विंशत्या चन्द्रदेवं तथाऽष्टभिः।
मित्रदेवं शतेनैव सत्यदेवं त्रिभिः शरैः॥ 8-18-11(55746)
नवभिर्मित्रवर्माणं सुशर्माणं तथाऽष्टभिः।
श्रुतञ्जयं च राजानं हत्वा तत्र शिलाशितैः॥ 8-18-12(55747)
सौश्रुतेः सशिरस्त्राणं शिरः कायादपाहरत्।
त्वरितश्चन्द्रदेवं च शरैर्निन्ये यमक्षयम्॥ 8-18-13(55748)
तथेतरान्महाराज यतमानान्महारथान्।
पञ्चभिः पञ्चभिर्बाणैरेकैकं प्रत्यवारयत्॥ 8-18-14(55749)
सत्यदेवस्तु सङ्क्रुद्वस्तोमरं व्यसृजन्महत्।
समुद्दिश्य रणे कृष्णं सिंहनादं ननाद च॥ 8-18-15(55750)
स निर्भिद्य भुजं सव्यं माधवस्य महात्मनः।
अयस्मयः स्वर्णदण्डो जगाम धरणीं तदा॥ 8-18-16(55751)
माधवस्य तु विद्धस्य तोमरेण महारणे।
प्रतोदः प्रापतद्वस्ताद्रश्मयश्च विशाम्पते॥ 8-18-17(55752)
वासुदेवं विभिन्नाङ्गं दृष्ट्वा पार्थो धनञ्जयः।
क्रोधमाहारयत्तीव्रं कृष्णं चेदमुवाच ह॥ 8-18-18(55753)
प्रापयाश्वान्महाबाहो सत्यदेवं प्रति प्रभो।
यावदेनं शरैस्तीक्ष्णैर्नयामि यमसादनम्॥ 8-18-19(55754)
प्रतोदं गृह्य सोऽन्यत्तु रश्मीन्सङ्गृह्य च द्रुतम्।
वाहयामास तानश्वान्सत्यदेवरथं प्रति॥ 8-18-20(55755)
विष्वक्सेनं सुनिर्विद्वं दृष्ट्वा पार्थो धनञ्जयः।
सत्यदेवं शरैस्तीक्ष्णैर्वारयित्वा महारथः॥ 8-18-21(55756)
ततः सुनिशितैर्भल्लै राज्ञस्तस्य महच्छिरः।
कुम्डलोपचितं कायाच्चकर्त पृतनान्तरे॥ 8-18-22(55757)
तन्निकृत्य शितैर्बाणैर्भित्रवर्माणमाक्षिपत्।
वत्सदन्तेन तीक्ष्णेन सारथिं चास्य मारिष॥ 8-18-23(55758)
ततः शरशतैर्भूयः संशप्तकगणान्बली।
पातयामास सङ्क्रुद्वः शतशोऽथ सहस्रशः॥ 8-18-24(55759)
ततो रजतपुङ्खेन राजञ्शीर्षं महात्मनः।
मित्रदेवस्य चिच्छेद क्षुरप्रेण महारथः।
सुशर्माणं सुसङ्क्रुद्धो जत्रुदेशे समाहनत्॥ 8-18-25(55760)
ततः संशप्तकाः सर्वे परिवार्य धनञ्जयम्।
शस्त्रौघैर्ममृदुः क्रुद्वा नादयन्तो दिशो दश॥ 8-18-26(55761)
अभ्यर्दितस्तु तज्जिष्णुः शक्रतुल्यपराक्रमः।
ऐन्द्रमस्त्रममेयात्मा प्रादुश्चक्रे महारथः॥ 8-18-27(55762)
ततः शरसहस्राणि प्रादुरासन्विशाम्पते।
`कार्मुकात्पाण्डुपुत्रस्य पार्थस्यामिततेजसः'॥ 8-18-28(55763)
ततस्तु च्छिद्यमानानां ध्वजानां धनुषां तथा।
रथानां सपताकानां तूणीराणां युगैः सह॥ 8-18-29(55764)
अक्षाणामथ चक्राणां योक्त्राणां रश्मिभिः सह।
कूबराणां वरूथानां पृषत्कानां च संयुगे॥ 8-18-30(55765)
अश्वानां पततां चापि प्रासानामृष्टिभिः सह।
गदानां परिघानां च शक्तितोमरपट्टसैः॥ 8-18-31(55766)
शतघ्नीनां सचक्राणां भुजानां चोरुभिः सह।
कण्ठसूत्राङ्गदानां च केयूराणां च मारिष॥ 8-18-32(55767)
हाराणामथ निष्काणां तनुत्राणां च भारत।
छत्राणां व्यजनानां च शिरसां कुमुटैः सह।
राशयश्चात्र दृश्यन्ते पतितानां महीतले॥ 8-18-33(55768)
सकुण्डलानि स्वक्षीमि पूर्णचन्द्रनिभानि च।
शिरांस्युर्व्यामदृश्यन्त ताराजालमिवाम्बरे॥ 8-18-34(55769)
सुस्रग्वीणि सुवासांसि चन्दनेनोक्षितानि च।
शरीराणि व्यदृश्यन्त निहतानां महीतले॥ 8-18-35(55770)
रुद्रस्याक्रीडसदृशं घोरमायोधनं तदा॥ 8-18-36(55771)
निहतै राजपुत्रैश्च क्षत्रियैश्च महाबलैः।
`अर्जुनेन महाराज तत्रतत्र महारणे'॥ 8-18-37(55772)
हस्तिभिः पतितैश्चैव तुरङ्गैश्चाभवन्मही।
अगम्यरूपा समरे विशीर्णैरिव पर्वतैः॥ 8-18-38(55773)
नासीद्रथपथस्तस्य पाण्डवस्य महात्मनः।
निघ्नतः शात्रवान्भल्लैर्हस्त्यश्वं चास्यतो महत्॥ 8-18-39(55774)
स्वानुगा इव सीदन्ति रथचक्राणि मारिष।
चरतस्तस्य सङ्ग्रामे तस्मिंल्लोहितकर्दमे॥ 8-18-40(55775)
सीदमानानि चक्राणि समुहूस्तुरगा भृशम्।
श्रमेण महता युक्ता मनोमारुतरंहसः॥ 8-18-41(55776)
वध्यमानं तु तत्सैन्यं पाण्डुपुत्रेण धन्विना।
प्रायशो विमुखं सर्वं नावतिष्ठत भारत॥ 8-18-42(55777)
ताञ्जित्वा समरे जिष्णुः संशप्तकगणान्बहून्।
विरराज तदा पार्थो विधूमोऽग्निरिव ज्वलन्॥ ॥ 8-18-43(55778)
इति श्रीमन्महाभारते कर्णपर्वणि षोडशदिवसयुद्धे अष्टादशोऽध्यायः॥ 18 ॥
Mahabharata - Karna Parva - Chapter Footnotes
8-18-39 आसीद्रथपथस्तस्य इति घ.ङ. पाठः। आसादितस्ततो रान्रथचक्रे विशाम्पते इति क.पाठः। आच्छादितं ततो राजन्रथचक्रं च मारिष इति ख.पाठः॥ 8-18-41 सीदमानानि पङ्कमज्जनात्॥ 8-18-18 अष्टादशोऽध्यायः॥


|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|